|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.34. अध्यायः 034
Mahabharata - Adi Parva - Chapter Topics
इन्द्रस्य गरुडसख्यलाभः॥ 1 ॥
इन्द्राद्गरुडस्य वरलाभः॥ 2 ॥
विनताया दास्यमोचनम्॥ 3 ॥
सर्पाणां द्विजिह्वत्वप्राप्तिः॥ 4 ॥
Mahabharata - Adi Parva - Chapter Text
सौतिरुवाच। 1-34-0x(149)(1631)
`इत्येवमुक्तो गरुडः प्रत्युवाच शचीपतिम्'। 1-34-1(1632)
गरुड उवाच।
सख्यं मेऽस्तु त्वया देव यथेच्छसि पुरंदर।
बलं तु मम जानीहि महच्चासह्यमेव च॥ 1-34-1x(150)
कामं नैतत्प्रशंसन्ति सन्तः स्वबलसंस्तवम्।
`अनिमित्तं सुरश्रेष्ठ सद्यः प्राप्नोति गर्हणाम्॥ 1-34-2(1633)
गुणसंकीर्तनं चापि पृष्टेनान्येन गोपते।
वक्तव्यं न तु वक्तव्यं स्वयमेव शतक्रतो॥' 1-34-3(1634)
सखेति कृत्वा तु सखे पृष्टो वक्ष्याम्यहं त्वया।
न ह्यात्मस्तवसंयुक्तं वक्तव्यमनिमित्ततः॥ 1-34-4(1635)
सपर्वतवनामुर्वीं ससागरजलामिमाम्।
वहे पक्षेण वै शक्र त्वामप्यत्रावलम्बिनम्॥ 1-34-5(1636)
सर्वान्संपिण्डितान्वापि लोकान्सस्थाणुजङ्गमान्।
वहेयमपरिश्रान्तो विद्धीदं मे महद्बलम्॥ 1-34-6(1637)
सौतिरुवाच। 1-34-7x(151)
इत्युक्तवचनं वीरं किरीटी श्रीमतां वरः।
आह शौनक देवेन्द्रः सर्वलोकहितः प्रभुः॥ 1-34-7(1638)
एवमेव यथात्थ त्वं सर्वं संभाव्यते त्वयि।
संगृह्यतामिदानीं मे सख्यमत्यन्तमुत्तमम्॥ 1-34-8(1639)
न कार्यं यदि सोमेन मम सोमः प्रदीयताम्।
अस्मांस्ते हि प्रबाधेयुर्येभ्यो दद्याद्भवानिमम्॥ 1-34-9(1640)
गरुड उवाच। 1-34-10x(152)
किंचित्कारणमुद्दिश्य सोमोऽयं नीयते मया।
न दास्यामि समापातुं सोमं कस्मैचिदप्यहम्॥ 1-34-10(1641)
यत्रेमं तु सहस्राक्ष निक्षिपेयमहं स्वयम्।
त्वमादाय ततस्तृर्णं हरेथास्त्रिदिवेश्वर॥ 1-34-11(1642)
शक्र उवाच। 1-34-12x(153)
वाक्येनानेन तुष्टोऽहं यत्त्वयोक्तमिहाण्डज।
यमिच्छसि वरं मत्तस्तं गृहाण खगोत्तम॥ 1-34-12(1643)
सौतिरुवाच। 1-34-13x(154)
इत्युक्तः प्रत्युवाचेदं कद्रूपुत्राननुस्मरन्।
भवेयुर्भुजगाः शक्र मम भक्ष्या महाबलाः॥ 1-34-13(1644)
गरुड उवाच। 1-34-14x(155)
ईशोऽहमपि सर्वस्य करिष्यामि तु तेऽर्थिताम्।
भवेयुर्भुजगाः शक्र मम भक्ष्या महाबलाः॥ 1-34-14(1645)
सौतिरुवाच। 1-34-15x(156)
तथेत्युक्त्वाऽन्वगच्छत्तं ततो दानवसूदनः।
देवदेवं महात्मानं योगिनामीश्वरं हरिम्॥ 1-34-15(1646)
स चान्वमोदत्तं चार्थं यथोक्तं गरुडेन वै।
इदं भूयो वचः प्राह भगवांस्त्रिदशेश्वरः॥ 1-34-16(1647)
हरिष्यामि विनिक्षिप्तं सोममित्यनुभाष्य तम्।
आजगाम ततस्तूर्णं सुपर्णी मातुरन्तिकम्॥ 1-34-17(1648)
`विनयावनतो भूत्वा वचनं चेदमब्रवीत्।
इदमानीतममृतं देवानां भवनान्मया॥ 1-34-18(1649)
प्रशाधि किमितो मातः करिष्यामि शुभव्रते। 1-34-19(1650)
विनतोवाच।
परितुष्टाऽहमेतेन कर्मणा तव पुत्रक॥ 1-34-19x(157)
अजरश्चाभरश्चैव देवानां सुप्रियो भव। 1-34-20(1651)
सौतिरुवाच।'
अथ सर्पानुवाचेदं सर्वान्परमहृष्टवत्। 1-34-20x(158)
गरुड उवाच।
इदमानीतममृतं निक्षेप्स्यामि कुशेषु वः॥ 1-34-20x(159)
स्नाता मङ्गलसंयुक्तास्ततः प्राश्नीत पन्नगाः।
भवद्भिरिदमासीनैर्यदुक्तं तद्वचस्तदा॥ 1-34-21(1652)
अदासी चैव मातेयमद्यप्रभृति चास्तु मे।
यथोक्तं भवतामेतद्वचो मे प्रतिपादितम्॥ 1-34-22(1653)
सौतिरुवाच। 1-34-23x(160)
ततः स्नातुं गताः सर्पाः प्रत्युक्त्वा तं तथेत्युत।
शक्रोऽप्यमृतमाक्षिप्य जगाम त्रिदिवं पुनः॥ 1-34-23(1654)
अथागतास्तमुद्देशं सर्पाः सोमार्थिनस्तदा।
स्नाताश्च कुतजप्याश्च प्रहृष्टाः कृतमङ्गलाः॥ 1-34-24(1655)
`परस्परकृतद्वेषाः सोमप्राशनकर्मणि।
अहं पूर्वमहं पूर्वमित्युक्त्वा ते समाद्रवन्॥' 1-34-25(1656)
यत्रैतदमृतं चापि स्थापितं कुशसंस्तरे।
तद्विज्ञाय हृतं सर्पाः प्रतिमायाकृतं च तत्॥ 1-34-26(1657)
सोमस्थानमिदं चेति दर्भांस्ते लिलिहुस्तदा।
ततो द्विधा कृता जिह्वाः सर्पाणां तेन कर्मणा॥ 1-34-27(1658)
अभवंश्चामृतस्पर्शाद्दर्भास्तेऽथ पवित्रिणः।
`नागाश्च वञ्चिता भूत्वा विसृज्य विनतां ततः।
विषादमगमंस्तीव्रं गरुडस्य बलात्प्रभो॥' 1-34-28(1659)
एवं तदमृतं तेन हृतमाहृतमेव च।
द्विजिह्वाश्च कृताः सर्पा गरुडेन महात्मना॥ 1-34-29(1660)
ततः सुपर्णः परमप्रहर्षवा-
न्विहृत्य मात्रा सह तत्र कानने।
भुजंगभक्षः परमार्चितः खगै-
रहीनकीर्तिर्विनतामनन्दयत्॥ 1-34-30(1661)
इमां कथां यः शृणुयान्नरः सदा
पठेत वा द्विजगणमुख्यसंसदि।
असंशयं त्रिदिवमियात्स पुण्यभा-
ङ्महात्मनः पतगपतेः प्रकीर्तनात्॥ ॥ 1-34-31(1662)
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि चतुस्त्रिंशोऽध्यायः॥ 34 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-34-6 संपिण्डितान् एकीकृतान्। स्थाणु स्थावरम्॥ 1-34-7 किरीटी इन्द्रः॥ 1-34-13 उपधिकृतं छलकृतम्॥ 1-34-14 ईशः समर्थः। अर्थितां अन्यस्मै अमृतं न देयमित्यर्थेप्सुताम्॥ 1-34-17 अनुभाष्य हे गरुडेति संबोध्य॥ 1-34-20 इदं वः युष्माकममृतं न तु मम॥ 1-34-26 प्रतिमायाकृतं यथा दास्यं मायाकृतं तथा अमृतदानमपि इतरेण कृतमित्यर्थः॥ चतुस्त्रिंशोऽध्यायः॥ 34 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|